प्रतपंतः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक्
कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम्
पांचाल्यपि च तत्पत्नी पतिव्यसनतापिता
आराधितोथ सविता तया द्रुपदकन्यया 4.1.49.
उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम्
आराधयंतीं भावेन सर्वत्र शुचिमानसाम्
स्थाल्यैतया महाभागे यावंतोऽन्नार्थिनो जनाः
भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति
इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने
आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति
अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते
प्राग्रवे त्वां समाराध्य यो मां द्रक्ष्यति मानवः
अतो धर्माप्रिये नित्यं प्राप्य विश्वेश्वराद्वरम्
ये मामत्र भजिष्यंति मानवाः श्रद्धयान्विताः
भवतीं मत्समीपस्थां युधिष्ठिरपतिव्रताम् 4.1.49.
येर्चयिष्यंति भावेन पुरुषा वास्त्रियोपि वा
न व्याधिजं भयं क्वापि न क्षुत्तृड्दोषसंभवम्
आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै
स्कंद उव।च द्रौपदादित्यमाहात्म्यं संक्षेपात्कथितं मया -
पुरा पंचनदे तीर्थे त्रिषुलोकेषु विश्रुते
प्रतिष्ठाप्य महालिंगं गभस्तीश्वर संज्ञितम्
दिव्यवर्षसहस्रं तु शतेन गुणितं मुने
स्वरूपतस्तु तपनस्त्रिलोकीतापनक्षमः
मयूखैस्तत्र सवितुस्त्रैलोक्यदहनक्षमैः 4.1.49.
वैमानिकैर्विष्णुपदे तत्यजे च गतागतम्
मयूखा एव दृश्यंते तिर्यगूर्ध्वमधोपि च
तस्यवै महसां राशेस्तपोराशेस्तपोर्चिषाम्
सूर्य आत्मास्य जगतो वेदेषु परिपठ्यते
जगच्चक्षुरसौ सूर्यो जगदात्मैष भास्करः
तमोंधकूपपतितमुद्यन्नेष दिनेदिने