ततः कृष्णं समापृच्छ्य कर्मनिर्मुक्तचेष्टितः
सांबो वाराणसीं प्राप्य समाराध्यांशुमालिनम्
सांबादित्यस्तदारभ्य सर्वव्याधिहरो रविः
सांबकुंडे नरः स्नात्वा रविवारेऽरुणोदये
न स्त्री वैधव्यमाप्नोति सांबादित्यस्य सेवनात्
शुक्लायां द्विज सप्तम्यां माघे मासि रवेर्दिने 4.1.48.
महारोगात्प्रमुच्येत तत्र स्नात्वारुणोदये
सन्निहत्यां कुरुक्षेत्रे यत्पुण्यं राहुदर्शने
मधौमासि रवेर्वारे यात्रा सांवत्सरी भवेत्
सांबादित्यं नरो जातु न शोकैरभिभूयते
विश्वेशात्पश्चिमाशायां सांबेनात्र महात्मना
इयं भविष्या तन्मूर्तिरगस्ते त्वत्पुरोऽकथि नरो भवति निष्पापः काशीवास फलं लभेत्
सांबादित्यस्य माहात्म्यं कथितं ते महामते
इदानीं द्रौपदादित्यं कथयिष्यामि तेनघ
सूत उवाच पाराशर्यमुने व्यास कुमारः कुंभजन्मने
संदेहो नात्र कर्तव्यो यतस्तद्गोचरोखिलम्
पृथिव्यां पंचधा भूत्वा प्रादुरासीज्जगद्धितः
उमापि च जगद्धात्री द्रुपदस्य महीभुजः
पंचापि पांडुतनयाः साक्षाद्रुद्रवपुर्धराः
नारायणोपि कृष्णत्वं प्राप्य तत्साहचर्यकृत्
प्रतपंतः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक्
कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम्
पांचाल्यपि च तत्पत्नी पतिव्यसनतापिता
आराधितोथ सविता तया द्रुपदकन्यया 4.1.49.
उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम्
आराधयंतीं भावेन सर्वत्र शुचिमानसाम्
स्थाल्यैतया महाभागे यावंतोऽन्नार्थिनो जनाः
भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति
इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने
आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति