अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन
यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान्
अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम्
अथवा विदितं नो ते वल्लवीनां विचेष्टितम्
वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः
तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता
इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् 4.1.48.
सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्षत
कियत्यपि गते काले पुनरप्याययौ मुनिः
बहिः क्रीडंतमाहूय सांबमित्याह नारदः
सांबोपि यामि नोयामि क्षणमित्थमचिंतयत्
न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः
प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा
अत्याहितं तदस्तीह तदागोद्वयदर्शनात्
ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित्
इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः
दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः 4.1.48.
ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम्
उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः
महार्हशयनीये तं हस्ते धृत्वा महामुनिम्
तासां स्खलितमालोक्य तिष्ठंतीनां पुरो मुनिः
पश्यपश्य महाबुद्धे दृष्ट्वा जांबवतीसुतम्
कृष्णोपि सांबमाहूय सहसैवाशपत्सुतम्
यस्मात्त्वद्रूपमालोक्य गोपाल्यः स्खलिता इमाः
वेपमानो महाव्याधिभयात्सांबोपि दारुणात्
कृष्णोप्यनेन संजानन्सांबं स्वसुतमौरसम्
तत्र ब्रध्नं समाराध्य प्रकृतिं स्वामवाप्स्यसि 4.1.48.
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गापगा च सा तेषां विशुद्धिरस्त्येव प्राप्य वाराणसीं पुरीम्
न केवलं हि पापेभ्यो वाराणस्यां विमुच्यते
तत्रानंदवने शंभोस्तवशाप निराकृतिः