साशीतिलक्षं तस्यासन्कुमारा अर्कवर्चसः
अतीवरूपसंपन्ना अतीव सुमहाबलाः
तांद्रष्टुं मानसः पुत्रो ब्रह्मणस्तपसांनिधिः । उरस्थलस्थ तुलसी मालया समलंकृतः
गोपीचंदननिर्यास लसदंगविलेपनः
आजगामांबरचरो नारदो द्वारकापुरीम्
तंदृष्ट्वा नारदं सर्वे विनम्रतरकंधराः
सांबः स्वरूपसौंदर्य गर्वसर्वस्वमोहितः 4.1.48.
सांबस्य तमभिप्रायं विज्ञाय स महामुनिः
कृष्णोथ दृष्ट्वाऽऽगच्छंतं प्रत्युद्गम्य च नारदम्
कृत्वा कथा विचित्रार्थास्तत एकांतवर्तिनः
अवश्यं किंचिदत्राऽस्ति यशोदानंदवर्धन
यूनां त्रिभुवनस्थानां सांबोऽतीव सुरूपवान्
अपेक्षंते न मुग्धाक्ष्यः कुलं शीलं श्रुतं धनम्
अथवा विदितं नो ते वल्लवीनां विचेष्टितम्
वामभ्रुवां स्वभावाच्च नारदस्य च वाक्यतः
तावद्धैर्यंचलाक्षीणां तावच्चेतोविवेकिता
इत्थं विवेचयंश्चित्ते कृष्णः क्रोधनदीरयम् 4.1.48.
सांबस्य वैकृतं किंचित्क्वचित्कृष्णोनवैक्षत
कियत्यपि गते काले पुनरप्याययौ मुनिः
बहिः क्रीडंतमाहूय सांबमित्याह नारदः
सांबोपि यामि नोयामि क्षणमित्थमचिंतयत्
न यामि च कथं वाक्यादस्याहं ब्रह्मचारिणः
प्रणमत्सुकुमारेषु व्रीडितोयं मयैकदा
अत्याहितं तदस्तीह तदागोद्वयदर्शनात्
ब्रह्मकोपाग्निनिर्दग्धाः प्ररोहंति न जातुचित्
इति ध्यात्वा क्षणं सांबोऽविशदंतःपुरंपितुः
दूरात्प्रणम्य विज्ञप्तिं स चकार सशंकितः 4.1.48.
ससंभ्रमोथ कृष्णोपि दृष्ट्वा सांबं च नारदम्
उत्थिते देवकीसूनौ ताः सर्वा अपि गोपिकाः
महार्हशयनीये तं हस्ते धृत्वा महामुनिम्