देहि मे कुण्डले देवि सौदासस्त्वां समादिशत्
अभिज्ञानं त्वमानीय नृपस्य द्विज दर्शय
स गत्वा त्वरितं भूपमभिज्ञानमयाचत
गत्वैवं ब्रूहि तां साध्वीं मम वाक्यं द्विजोत्तम
ततोऽसौ प्रददौ तस्मै गृह्ण मे कुण्डले द्विज
एते च वांछते नित्यं तक्षको द्विज कुण्डले कौतुकात्पुनरागत्य राजानं वाक्यमब्रवीत्॥7.3.2.
अभिज्ञानान्मया भूप सम्प्राप्ते दीप्तकुण्डले
कौतुकाद्वद मे राजन्स्वकार्ये च यथास्थितम्
असन्तुष्टा दुर्गतिदाः सद्यो मम यथा पुरा
एतावान्मम शापोऽयं वसिष्ठस्य महात्मनः
तदा दोषविनिर्मुक्तो भविष्यसि न संशयः सात्त्विकं धाम चापन्नो गच्छ विप्र नमोऽस्तु ते
गच्छंश्चातिक्षुधाविष्टो ऽपश्यद्बिल्वफलानि सः
ततः कृष्णाजिने बद्ध्वा कुण्डले न्यस्य भूतले
एतस्मिन्नेव काले तु तक्षकः पन्नगोत्तमः
अथोत्तंकः फलाहारी अवतीर्य धरातले
स दृष्ट्वा सम्मुखं प्राप्तं समीपं पन्नगोत्तमः 7.3.2.
उत्तंकोऽपि बिलं प्राप्तः प्रविश्य तमसावृतम्
तं तथा दुःखितं दृष्ट्वा सक्लेशं गुरुकार्यतः
ततो विदारयामास स शीघ्रं धरणीतलम्
सोऽपश्यद्वाजिनं तत्र सर्वश्वेतं गुणान्वितम्
स चकार तथा शीघ्रं ततो धूमो व्यजायत
ततश्च व्याकुलाः सर्वे पन्नगाः समुपाद्रवन् उत्तंकाय ततो दत्त्वा प्रणिपत्य ययुर्गृहम्
यस्त्वयाऽऽराधितः पूर्वमुपाध्यायनिदेशतः
ज्ञात्वा त्वां दुःखितं प्राप्तमिह प्राप्तः कृपापरः
नयामि तत्र यत्रास्ते गुरुः सर्वगुणालयः
तत्क्षणात्समनुप्राप्तो गौतमस्य निवेशनम् 7.3.2.
स्नाता चाभ्येत्य भर्तारं साध्वी वाक्यमुवाच ह
शिथिलो गुरुकृत्येषु स यदालक्षितो मया
प्रसन्नवदनो हृष्टः कुण्डलाभ्यां समन्वितः
सा दृष्ट्वा तत्क्षणात्साध्वी कर्णाभ्यां संन्यवेशयत्