सापि शंभोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम्
त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः
किं वृणे यावदित्थं सा चिंतयेच्चारुमध्यमा
आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः
अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम्
परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा
अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम्
इति वाचं निशम्येशः परोपकृतिशालिनीम् 4.1.47.
देवदवस्ततः प्राह देवि पश्य गिरींद्रजे
ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते
संचयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित्
धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि
सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा
यथा जया च विजया यथा चैव जयंतिका
यथा चंपकमाला च यथा मलयवासिनी
अशोका च विशोका च यथा मलयगंधिनी
यथा च कोकिलालापा यथा मधुरभाषिणी
दृगंचलेंगितज्ञा च यथा कृतमनोरथा 4.1.47.
अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी
दिव्यांबरा दिव्यगंधा दिव्यज्ञानसमन्विता
एषापि काशिराजस्य कुमार्यस्त्विह बर्करी
अनया त्वर्ककुंडेस्मिन्पुष्ये मासि रवेर्दिने
राजपुत्री ततः पुण्यादस्त्वेषा शुभलोचना
बर्करीकुंडमित्याख्या त्वर्ककुंडस्य जायताम्
उत्तरार्कस्य देवस्य पुष्ये मासि रवेर्दिने
मृडान्याभिहि तं सर्वं कृत्वैतद्विश्वगो विभुः
कथितं ते महाभाग सांबादित्यं निशामय
श्रुत्वैतत्पुण्यमाख्यानं शुभं लोलोत्तरार्कयोः 4.1.47.
स्कंद उवाच शृणुष्व मैत्रावरुणे द्वारवत्यां यदूद्वहः
आविरासीत्स्वयं कृष्णः कृष्णवर्त्मप्रतापवान्