याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता
अहो देहोप्यहोंगत्वं यथा पित्रोः पुरो मम
ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह
तस्यां तपस्यमानायामेकाच्छागी लघीयसी
तृणपर्णादिकं किंचित्सायमभ्यवहृत्य सा
तत इत्थं व्यतीतासु पंचषा सुसमासु च
सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम्
ततो गिरिजया शंभुर्विज्ञप्तः करुणात्मना 4.1.47.
शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः
सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते
सापि शंभोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम्
त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः
किं वृणे यावदित्थं सा चिंतयेच्चारुमध्यमा
आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः
अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम्
परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा
अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम्
इति वाचं निशम्येशः परोपकृतिशालिनीम् 4.1.47.
देवदवस्ततः प्राह देवि पश्य गिरींद्रजे
ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते
संचयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित्
धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि
सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा
यथा जया च विजया यथा चैव जयंतिका
यथा चंपकमाला च यथा मलयवासिनी
अशोका च विशोका च यथा मलयगंधिनी
यथा च कोकिलालापा यथा मधुरभाषिणी
दृगंचलेंगितज्ञा च यथा कृतमनोरथा 4.1.47.
अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी
दिव्यांबरा दिव्यगंधा दिव्यज्ञानसमन्विता