तत्रेतिहासो यो वृत्तस्तं निशामय सुव्रत
आसीत्काश्यां शुभाचारः सदातिथिजनप्रियः
भर्तृशुश्रूषणरता गृहकर्मसुपेशला
मूलर्क्षप्रथमेपादे तथा केंद्रे बृहस्पतौ
सुरूपा विनयाचारा पित्रोश्च प्रियकारिणी
यथायथा समैधिष्ट सा कन्या पितृमंदिरे
कस्मै देया वरा कन्या सुरम्येयं सुलक्षणा
कुलेन वयसा चापि शीलेनापि श्रुतेन च 4.1.47.
इति चिंतयतस्तस्य ज्वरोभूदतिदारुणः
तन्मूलर्क्षविपाकेन चिंताख्येन ज्वरेण च
पितर्युपरते तस्याः कन्यायाः सा जनन्यपि
धर्मोयं सहचारिण्या जीवताजीवतापि वा
नापत्यं पाति नो माता न पिता नैव बांधवाः
सुलक्षणापि दुःखार्ता पित्रोः पंचत्वमाप्तयोः
चिंतामवाप महतीमनाथा दैन्यमागता
दुस्तरं पारमाप्स्यामि स्त्रीत्वं सर्वाभिभावि यत्
तददत्ता कथं स्वैरमहमन्यं वरं वृणे
स्वाधीनोपि न तत्तेन वृतेनापि हि किं भवेत् 4.1.47.
युवभिर्बहुभिर्नित्यं प्रार्थितापि मुहुर्मुहुः
पित्रोरुपरतिं दृष्ट्वा वात्सल्यं च तथाविधम्
याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता
अहो देहोप्यहोंगत्वं यथा पित्रोः पुरो मम
ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह
तस्यां तपस्यमानायामेकाच्छागी लघीयसी
तृणपर्णादिकं किंचित्सायमभ्यवहृत्य सा
तत इत्थं व्यतीतासु पंचषा सुसमासु च
सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम्
ततो गिरिजया शंभुर्विज्ञप्तः करुणात्मना 4.1.47.
शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः
सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते