येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा
कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति
इतराणीह तेजांसि भासंते तावदेव हि
इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः
लोलार्क उत्तरार्कश्च सांबादित्यस्तथैव च
खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ
द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव
तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने
लोलार्कस्त्वसिसंभेदे दक्षिणस्यां दिशिस्थितः
मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे 4.1.46.
कृतानि यानि पापानि नरैः संवत्सरावधि
नरः स्नात्वासिसंभेदे संतर्प्य पितृदेवताः
लोलार्कसंगमे स्नात्वा दानं होमं सुरार्चनम्
सूर्योपरागे लोलार्के स्नानदानादिकाः क्रियाः
लोलार्के रथसप्तम्यां स्नात्वा गंगासिसंगमे
प्रत्यर्कवारं लोलार्कं यः पश्यति शुचिव्रतः
न तस्य दुःखं नो पामा न दद्रुर्न विचर्चिका
वाराणस्यामुषित्वापि यो लोलार्कं न सेवते
सर्वेषां काशितीर्थानां लोलार्कः प्रथमं शिरः
तीर्थांतराणि सर्वाणि भूमीवलयगान्यपि 4.1.46.
सर्वेषामेव तीर्थानां स्नानाद्यल्लभ्यते फलम्
नार्थवादोयमुदितः स्तुतिवादो न वै मुने
यत्र विश्वेश्वरः साक्षाद्यत्र स्वर्गतरंगिणी
उदाहरंति ये मूढाः कुतर्कबलदर्पिताः
कस्यचित्काशितीर्थस्य महिम्नो महतस्तुलाम्
नास्तिका वेदबाह्याश्च शिश्नोदरपरायणाः
लोलार्ककरनिष्टप्ता असिधार विखंडिताः
महिमानमिमं श्रुत्वा लोलार्कस्य नरोत्तमः
तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः
तापयन्दुःखसंघातं साधूनाप्याययन्रविः