क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योंत्यजः क्वचित
यतिः कदाचिदिति सरूपैरभ्रामयज्जनान्
इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः
ततो निनिंद चात्मानं चिंतार्तः कश्यपात्मजः
अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत्
कोपमप्युररीकृत्य यदि यायां कथंचन
अथोंकृत्यावहेलं वा यामि चेच्च कथंचन
हरकोपानले नूनं यदि यातः पतंगताम्
स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन
पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः 4.1.46.
अन्यान्यपि च पापानि महांत्यल्पानि यानि च
बुद्धिपूर्वं मया चैतन्न पापं समुपार्जितम्
धर्मो हि रक्षितो येन देहे सत्वरगत्वरे
रक्षणीयो यदि भवेत्कामः कामारिणा कथम्
अर्थश्चेत्सर्वथारक्ष्य इति कैश्चिदुदाहृतम्
धर्मस्तु रक्षितः सर्वैरपिदेहव्ययेन च
अयमेव हि वै धर्मः काशीसेवनसंभवः
अवाप्य काशीं दुष्प्रापां को जहाति सचेतनः
वाराणसीं समुत्सृज्य यस्त्वन्यत्र यियासति
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च 4.1.46.
येन लब्धा पुरी काशी त्रैलोक्योद्धरणक्षमा
कुपितोपि हि मे रुद्रस्तेजोहानिं विधास्यति
इतराणीह तेजांसि भासंते तावदेव हि
इति काशीप्रभावज्ञो जगच्चक्षुस्तमोनुदः
लोलार्क उत्तरार्कश्च सांबादित्यस्तथैव च
खखोल्कश्चारुणादित्यो वृद्धकेशवसंज्ञकौ
द्वादशश्च यमादित्यः काशिपुर्यां घटोद्भव
तस्यार्कस्य मनोलोलं यदासीत्काशिदर्शने
लोलार्कस्त्वसिसंभेदे दक्षिणस्यां दिशिस्थितः
मार्गशीर्षस्य सप्तम्यां षष्ठ्यां वा रविवासरे 4.1.46.