काशीप्रवृत्तिं जिज्ञासुः प्राहिणोदंशुमालिनम्
देवदेव उवाच सप्ताश्व त्वरितो याहि पुरीं वाराणसीं शुभाम्
तस्य धर्मविरोधेन यथातत्क्षेत्रमुद्वसेत्
धर्ममार्ग प्रवृत्तस्य क्रियते यावमानना
तवबुद्धिविकासेन च्यवते चेत्स धर्मतः
कामक्रोधौ लोभमोहौ मत्सराहंकृती अपि
यावद्धर्मे स्थिराबुद्धिर्यावद्धर्मेस्थिरं मनः
सर्वेषामिह जंतूनां त्वं वेत्सि ब्रध्नचेष्टितम्
रविरादाय देवाज्ञां मूर्तिमन्यां प्रकल्प्य च
मनसातीवलोलोऽभूत्काशीदर्शनलालसः 4.1.46.
हंसत्वं तस्य सूर्यस्य तदा सफलतामगात्
अथ काशीं समासाद्य रविरंतर्बहिश्चरन्
विभावसुर्वसन्काश्यां नानारूपेण वत्सरम्
कदाचिदतिथिर्भूतो दुर्लभं प्रार्थयन्रविः
कदाचिद्याचको जातो बहुदोपि कदाप्यभूत्
वेदबाह्यां क्रियां चापि कदाचित्प्रत्यपादयत्
कदाचिज्जटिलो जातः कदाचिच्च दिगंबरः
सर्वपाषंडधर्मज्ञः कदाचिद्ब्रह्मवाद्यभूत्
नानाव्रतोपदेशैश्च कदाचित्स पतिव्रताः
कापालिक व्रतधरः कदाचिच्चाभवद्द्विजः 4.1.46.
क्वचिद्विप्रः क्वचिद्राजपुत्रो वैश्योंत्यजः क्वचित
यतिः कदाचिदिति सरूपैरभ्रामयज्जनान्
इति नानाविधै रूपैश्चरन्काश्यां ग्रहेश्वरः
ततो निनिंद चात्मानं चिंतार्तः कश्यपात्मजः
अनिष्पादितकार्यार्थे मयि सामान्यभृत्यवत्
कोपमप्युररीकृत्य यदि यायां कथंचन
अथोंकृत्यावहेलं वा यामि चेच्च कथंचन
हरकोपानले नूनं यदि यातः पतंगताम्
स्थास्याम्यत्रैव तन्नित्यं न त्यक्ष्यामि कदाचन
पुरः पुरारेः कायार्थमनिवेद्येह तिष्ठतः 4.1.46.