पितामहस्य वचनाद्दिवोदासे महीपतौ
कथं स राजा धर्मिष्ठः प्रजापालनतत्परः
अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु
धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत्
विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे
न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति
इति संचिंतयन्देवो योगिनीचक्रमग्रतः
अथ देव्या समालोच्य व्योमकेशो महामुने 4.1.44.
सत्वरं यात योगिन्यो मम वाराणसीं पुरीम्
स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः
यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम्
इति प्रसादमासाद्य शासनं शिरसा वहन्
ययुराकाशमाविश्य मनसोप्य तिरंहसा
अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम्
अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ
इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमंदराद्रिकुंजात्
स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम्
दिव्यप्रासादमालानां पताकाश्चलपल्लवाः
चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः
देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम्
काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी
मालाकारवधूः काचित्काचिन्नापितसुंदरी
वैश्या च काचिदभवत्क्रयविक्रयचंचुरा
एका च नृत्यकुशला त्वन्या गानविशारदा
मृदंगवादनज्ञान्या काचित्ताल कलावती
गंधभागविधिज्ञान्या काचिदक्षकलालया 4.1.45.
वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा
अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत्
चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा
गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा