त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत्
भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः
भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ
इति संसृतिसंबीजजनन्याभिहिते हिते
सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः
अथबालसखी भूत तत्तत्काननवीरुधम्
कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः
धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे 4.1.44.
न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः
किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः
त्रिविष्टपे संति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः
न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम्
मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः
न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित्
न मुक्तिरस्तीह तथा समाधिना स्थिरेंद्रियत्वोज्झित तत्समाधिना
न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुंदरे
क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते
षडंगयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते 4.1.44.
वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम्
दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी
वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम्
न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः
महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति संक्षयम्
किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः
समतीतविमुक्तजंतुसंख्या क्रियते यत्र जनैः सुखोपविष्टैः
पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्
श्रीपार्वत्युवाच प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन
स्कन्द उवाच जितपीयूषमाधुर्यां काशीस्तवनसुंदरीम् 4.1.44.
श्रीदेवदेव उवाच अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः
त्वं जानासि महादेवि मम यत्तन्महद्व्रतम्