निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः
विरहानलशांतये तदा समलेपि त्रिपुरारिणापि यः ।। मलयोद्भव पंक एष स प्रतिपेदेह्यधुना पिपांसुताम् । ३ परितापहराणि पद्मिनीनां मृदुलान्यपि कंकणीकृतानि
यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचंद्रः
यददीधरदेष जाततापः पृथुले मौलिजटानि कुंजकोणे
महतो विरहस्य शंकरः प्रसभंतस्यवशी वशंगतः
अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना
निजभालतलं कलानिधेः कलया नित्यमलंकरोति यः
गरलं गलनालिकातले विलसेदस्य न तेन तापितः 4.1.44.
विलसद्धरिचंदनोदकच्छटया तद्विरहापनुत्तये
सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः
स्मृतिमात्रपथंगतोपि यस्त्रिविध तापमपाकरोत्यलम्
अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम
अगमिष्यदहोकथं सतापो ननु दक्षांगजयाय एधितः
न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत्
अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमंगसंगजम्
अयि काशि विनाशिताघसंघे तवविश्लेषजआशुशुक्षणिः
अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन
मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः 4.1.44.
प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः
तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री
त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत्
भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः
भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ
इति संसृतिसंबीजजनन्याभिहिते हिते
सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः
अथबालसखी भूत तत्तत्काननवीरुधम्
कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः
धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे 4.1.44.
न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः
किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः