ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम्
हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता
समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः
प्रजासु च विरक्तासु राज्यकामदुघासु वै
प्रजानां रंजनाद्राजा येयं रूढिरुपार्जिता
प्रजाविरहितो राजा कोशदुर्गबलादिभिः
त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः
क्षीणे त्रिवर्गे संक्षीणा गतिर्लोकद्वयात्मिका ।। 4.1.43.
इतींद्रवचनाद्वह्निरह्नाय क्षोणिमंडलात्
निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः
वह्नौ स्वर्लोकमापन्ने जाते मध्यंदिने नृपः
महानसाधिकृतयो वेपमानास्ततो मुहुः
सूपकारा ऊचुः किंचिद्विज्ञप्तुकामाः स्मोप्यकांडेरणपंडित
यदि विश्रुणयेद्राजन्भवानभयदक्षिणाम्
भ्रूसंज्ञयाकृतादेशाः प्रशस्तास्येनभूभुजा
न जानीमो वयं नाथ त्वत्प्रतापभयार्दितः
कृशानौ कृशतां प्राप्ते कथं पाकक्रिया भवेत्
प्रभोरादेशमासाद्य तामिहैवानयामहे 4.1.43.
श्रुत्वांधसिकवाक्यं स महासत्त्वो महामतिः
क्षणं संशीलयंस्तत्र ददर्श तपसोबलात्
अप्यहासीदितोलोकाज्जगाम च सुरालयम्
तेषामेवविचाराच्च हानिरेषा सुपर्वणाम्
पितामहेन महतो गौरवात्प्रतिपादितम्
पौराः समागता द्वारि सह जानपदैर्नरैः
दत्त्वोपदं यथार्हं ते प्रणेमुः क्षोणिवज्रिणम्
केचिच्च समुदा दृष्ट्या केचिच्च करसंज्ञया
तेजिरे भेजिरे सर्वे रत्नार्चिः परिसेविते राज्ञः शतशलाकस्थच्छत्रस्यच्छाययाशुभे
विशांपतिरथोवाच तन्मुखच्छाययेरितम् 4.1.43.
अस्मत्कुले मूलभूतो भास्करो मान्य एव नः 4.1.43.
अथ मंदरकंदरोदरोल्लसद समद्युति रत्नमंदिरे