अनपत्या न तद्राष्ट्रे धनहीनोपि कोपि न
न चाटा नैव वाचाटा वंचका नो न हिंसकाः
श्रुतिघोषो हि सर्वत्र शास्त्रवादः पदेपदे
वीणावेणुप्रवादाश्च मृदंगा मधुरस्वनाः
मांसाशिनः पुरोडाशे नैवान्यत्र कदाचन
पुत्रस्य पित्रोः पदयोः पूजनं देवपूजनम्
नारीणां भर्तृपद् योरर्चनं तद्वचःश्रुतिः
सपर्ययंति मुदिता भृत्याः स्वामिपदांबुजम्
वरिवस्यंति भूयोपि त्रिकालं काशिदेवताः 4.1.43.
विद्वद्भिश्च तपोनिष्ठास्तपोनिष्ठैर्जितेंद्रियाः
मंत्रपूतं महार्हं च विधियुक्तं सुसंस्कृतम्
वापीकूपतडागानामारामाणां पदेपदे
यद्राष्ट्रे हृष्टपुष्टाश्च दृश्यंते सर्वजातयः
इत्थं तस्य महीजानेः सर्वत्र शुचिवर्तिनः
अथोवाचामर गुरुर्देवानपचिकीर्षुकान्
यथा स राजा संवेत्ति न तथात्रापि कश्चन
तेन यद्यपि भूभर्त्रा भूमेर्देवा विवासिताः
कालो निमिषमात्रोपि यान्विना न सुखं व्रजेत् 4.1.43.
अंतर्बहिश्चरा नित्यं सर्वविश्रंभ भूमयः
समाकर्ण्य च ते सर्वे त्रिदशा गीष्पतीरितम् अभिनंद्याथ तं सर्वे प्रोचुरित्थं भवेदिति
ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम्
हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता
समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः
प्रजासु च विरक्तासु राज्यकामदुघासु वै
प्रजानां रंजनाद्राजा येयं रूढिरुपार्जिता
प्रजाविरहितो राजा कोशदुर्गबलादिभिः
त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः
क्षीणे त्रिवर्गे संक्षीणा गतिर्लोकद्वयात्मिका ।। 4.1.43.
इतींद्रवचनाद्वह्निरह्नाय क्षोणिमंडलात्
निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः