ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः
अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा ॥ 7.3.1.
यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात्
तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम्
तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च
न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम
अभूत्कौतूहलं तेन सर्वं विस्तरतो वद
अहिल्या दयिता तस्य धर्मपत्नी यशस्विनी
शिष्यानध्यापयामास स मुनिः शतशस्तदा
तस्यान्योऽपि च यः शिष्यो गुरुभक्तिपरायणः
न तं विसर्जयामास जरयापि परिप्लुतम्
जातकार्यसमायुक्तो विद्यापारंगतोऽपि सः
प्रभूतानि समादाय आश्रमं परमं गतः
काष्ठलग्नां तदा श्वेतां जटामेकां ददर्श सः
धिग्धिङ्मे जीवितं नष्टं कुतः कार्यरतस्य च
भविष्यति कुलच्छेदः शैथिल्यान्मम दुर्मतेः
तस्य दुःखं तथा क्षिप्रं गौतमाय निेवेदितम् 7.3.2.
वत्स गच्छ गृहं त्वं च अग्निहोत्रादिकाः क्रियाः
इत्युक्तो गुरुणा सोऽपि प्रत्युवाच गुरुं प्रति
तेनैव परिपूर्णत्वं जातं मे नात्र संशयः
उत्तंक उवाच किंचिद्ग्राह्यं त्वया स्वामिन्सन्तोषो जायते मम
नेच्छाम्यहं धनं त्वत्तः सुखं गच्छ गृहं प्रति
इत्युक्तो गुरुणा सोऽपि मातरं चाभ्यभाषत
मदयन्ती प्रिया तस्य धर्मपत्नी यशस्विनी
कुण्डलेऽथानय क्षिप्रं मदयंत्याश्च पुत्रक
इत्युक्तो गुरुपत्न्या स प्रस्थितः सत्वरं तदा
दृष्ट्वा प्राह तदा विप्रं भक्षणार्थमुपस्थितम् 7.3.2.
देहि मे कुण्डले तात दत्त्वाऽहं गुरवे पुनः
तां त्वमासाद्य यत्नेन जीवितव्यभयाद्द्विज
याच्यतां मम वाक्येन सा ते दास्यति कुण्डले