अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः
सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे
न नेत्रविषये जाता विषये यस्यभूभृतः
कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम्
एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः
तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित्
क्षयी च तस्य विषये कोप्याकर्णि न केनचित्
नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः
हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते 4.1.43.
सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान्
सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः
अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित्
दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः
गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः
भवादृशामिव मुने प्रायशो धर्मचारिणाम्
यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः
स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता
अंतराया भवंत्येव धर्मस्यापि पदेपदे
अधर्मिणः समेधंते धनधान्यसमृद्धिभिः 4.1.43.
प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान्
षाड्गुण्यवेदिनस्तस्य त्रिशक्त्यूर्जितचेतसः
बुद्धिमंतोपि विबुधा विप्रतीकर्तुमुद्यताः
एकपत्नीव्रताः सर्वे पुमांसस्तस्य मंडले
अनधीतो न विप्रोभूदशूरोनैव बाहुजः
अनन्यवृत्तयः शूद्रा द्विजशुश्रूषणं प्रति
अविप्लुत ब्रह्मचर्यास्तद्राष्ट्रे ब्रह्मचारिणः
आतिथ्यधर्मप्रवणा धर्मशास्त्रविचक्षणाः
तृतीयाश्रमिणो यस्मिन्वनवृत्तिकृतादराः
सर्वसंगविनिर्मुक्ता निर्मुक्ता निष्परिग्रहाः 4.1.43.
अन्येनुलोमजन्मानः प्रतिलो मभवा अपि