धनंजय इवाधाक्षीत्परारण्यान्यनेकशः
सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः
राजराजः स एवाभूत्सर्वेषां धनदः सताम्
विश्वेषां स हि देवानां तपसा रूपधृग्यतः
असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः
मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः
अगर्वानेव गंधर्वान्यश्चक्रे निजगीतिभिः
नागानागांसि चक्रुश्च तस्य नागबलीयसः
जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु 4.1.43.
वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः आशुगश्चाशुगामित्वं पावमाने पथिस्थितः
अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः
सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे
न नेत्रविषये जाता विषये यस्यभूभृतः
कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम्
एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः
तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित्
क्षयी च तस्य विषये कोप्याकर्णि न केनचित्
नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः
हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते 4.1.43.
सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान्
सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः
अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित्
दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः
गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः
भवादृशामिव मुने प्रायशो धर्मचारिणाम्
यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः
स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता
अंतराया भवंत्येव धर्मस्यापि पदेपदे
अधर्मिणः समेधंते धनधान्यसमृद्धिभिः 4.1.43.
प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान्