तपसा तस्य संतुष्टो मंदरस्यैव भूभृतः
गते विश्वेश्वरे देवे मंदरं गिरिसुंदरम्
क्षेत्राणि वैष्णवानीह त्यक्त्वा विष्णुरपि क्षितेः
स्थानानि गाणपत्यानि गणेशोपि ततो व्रजत्
सूरः सौराणि संत्यज्य गतश्चायतनादरम्
गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः
विधाय राजधानीं स वाराणस्यां सुनिश्चलाम्
सूर्यवत्स प्रतपिता दुर्हृदां हृदि नेत्रयोः
अखंडमाखंडलवत्कोदंडकलयन्रणे 4.1.43.
स धर्मराजवज्जातो धर्माधर्मविवेचकः
धनंजय इवाधाक्षीत्परारण्यान्यनेकशः
सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः
राजराजः स एवाभूत्सर्वेषां धनदः सताम्
विश्वेषां स हि देवानां तपसा रूपधृग्यतः
असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः
मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः
अगर्वानेव गंधर्वान्यश्चक्रे निजगीतिभिः
नागानागांसि चक्रुश्च तस्य नागबलीयसः
जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु 4.1.43.
वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः आशुगश्चाशुगामित्वं पावमाने पथिस्थितः
अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः
सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे
न नेत्रविषये जाता विषये यस्यभूभृतः
कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम्
एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः
तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित्
क्षयी च तस्य विषये कोप्याकर्णि न केनचित्
नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः
हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते 4.1.43.
सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान्