गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः
पांसुराशि च वल्मीकं यूपदंडमथापि वा
रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम्
स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः
लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम्
काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः
नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन्
कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि
एतानि कालचिह्नानि संत्यन्यानि बहून्यपि 4.1.42.
न कालवंचनोपायं मुनेन्यमवयाम्यहम्
तावद्गर्जंति पापानि तावद्गर्जेद्यमो नृपः
प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः
करिष्येत्कुपितःकालः किंकाशीवासिनां नृणाम्
यथा प्रयाति शिशुता कौमारं च यथा गतम्
यावन्नहि जराक्रांतिर्यावन्नेंद्रियवैक्लवम्
अन्यानि काललक्ष्माणि तिष्ठंतु कलशोद्भव
पराभूतो हि जरया सर्वैश्च परिभूयते
सुतावाक्यं न कुर्वंति पत्नी प्रेमापि मुंचति
आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशंकिता 4.1.42.
न जरा सदृशो व्याधिर्न दुःखं जरया समम्
न जीयते तथा कालस्तपसा योगयुक्तिभिः
विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः
काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः
कः कलिकोथवा कालः का जरा किं च दुष्कृतम्
कलिस्तानेव बाधेत कालस्तांश्च जिघांसति
एनांसि तांश्च बाधंते ये न काशीं समाश्रिताः तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः
धनिनो न तथा सौख्यं प्राप्नुवंति नराः क्वचित्
वरं काशीसमावासी नासीनो द्युसदां पदम्
स्थितोपि भगवनीशो मंदरं चारुकंदरम् 4.1.42.
काशीं संत्याजयामास कथमागाच्च मंदरात्