यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा 4.1.42.
व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम्
अरुंधतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च
अरुंधती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते
वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि
षण्मासमृत्योर्मर्त्यस्य कंठोष्ठरसना रदाः
रेतः करजनेत्रांता नीलिमानं भजंति चेत्
द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके
सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति 4.1.42.
प्रतिबिंबं भवेद्यस्य पदखंडपदाकृति
छाया प्रकंपते यस्य देहबंधेपि निश्चले
निजस्य प्रतिबिंबस्य नीराज्यमुकुरादिषु
मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै
दिवा च तारकाचक्रं रात्रौ व्योमवितारकम्
भूरुहे भूधराग्रे च गंधर्वनगरालयम्
सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते
करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम्
यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम्
प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः 4.1.42.
रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः
गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः
पांसुराशि च वल्मीकं यूपदंडमथापि वा
रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम्
स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः
लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम्
काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः
नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन्
कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि
एतानि कालचिह्नानि संत्यन्यानि बहून्यपि 4.1.42.
न कालवंचनोपायं मुनेन्यमवयाम्यहम्