अहं होमस्य चोद्वेगान्निःसृतस्त्वामवेक्षितुम्
पतितात्र विभो त्राहि कृच्छ्रादस्मात्सुदुःसहात् 7.3.1.
सरस्वतीं समादध्यौ नदीं त्रैलोक्यपावनीम्
श्वभ्रं तत्पूरयामास समंताद्विमलैर्जलैः
संहृष्टा मुनिना सार्द्धं ययावाश्रमसम्मुखम्
स दृष्ट्वा श्वभ्रमध्यं तं गंभीरं च महामुनिः
तस्य चिंतयतो विप्रा बुद्धिरेषोदपद्यत तस्माद्गच्छाम्यहं शीघ्रं हिमवन्तं नगोत्तमम्
स एव पर्वतं चात्र प्रेषयिष्यति भूधरः
ततो जगाम स मुनिर्हिमवन्तं नगोत्तमम् अर्घ्यपाद्यादिसंस्कारैः संपूज्य इदमब्रवीत्
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्य जीवितम्
ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः
अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा ॥ 7.3.1.
यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात्
तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम्
तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च
न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम
अभूत्कौतूहलं तेन सर्वं विस्तरतो वद
अहिल्या दयिता तस्य धर्मपत्नी यशस्विनी
शिष्यानध्यापयामास स मुनिः शतशस्तदा
तस्यान्योऽपि च यः शिष्यो गुरुभक्तिपरायणः
न तं विसर्जयामास जरयापि परिप्लुतम्
जातकार्यसमायुक्तो विद्यापारंगतोऽपि सः
प्रभूतानि समादाय आश्रमं परमं गतः
काष्ठलग्नां तदा श्वेतां जटामेकां ददर्श सः
धिग्धिङ्मे जीवितं नष्टं कुतः कार्यरतस्य च
भविष्यति कुलच्छेदः शैथिल्यान्मम दुर्मतेः
तस्य दुःखं तथा क्षिप्रं गौतमाय निेवेदितम् 7.3.2.
वत्स गच्छ गृहं त्वं च अग्निहोत्रादिकाः क्रियाः
इत्युक्तो गुरुणा सोऽपि प्रत्युवाच गुरुं प्रति
तेनैव परिपूर्णत्वं जातं मे नात्र संशयः