प्राणोदेहगतोवायुरायामस्तन्निबंधनम् 4.1.41.
प्राणायामेऽधमे घर्मः कंपो भवति मध्यमे
प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम्
समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम्
प्राणायामद्विषट्केन प्रत्याहार उदाहृतः
भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम्
समाधेः परतो ज्योतिरनंतं स्वप्रकाशकम्
पवने व्योमसंप्राप्ते ध्वनिरुत्पद्यते महान्
प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत्
हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः
युक्तं युक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् 4.1.41.
नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः 4.1.41.
वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमंजनसन्निभम्
सगुणं वणर्भेदेन निर्गुणं केवलं मतम् 4.1.41.
युक्ताहारविहारश्च युक्तचेष्टो हि कर्मसु 4.1.41.
चंद्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत् 4.1.41.
जालंधरे कृते बंधे कंठसकोचलक्षणे 4.1.41.
योजनानां शतं यातुं शक्तिःस्यान्निमिषार्धतः 4.1.41.
यत्प्राप्य न निवर्तेत यत्प्राप्य न च शोचति
काश्यां सुखेन कैवल्यं यथालभ्येत जंतुभिः 4.1.41.
जलस्य धारणं मूर्ध्नि विश्वेश स्नानजन्मनः 4.1.41.
तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः
मृत्यौ निकटमापन्ने मुने तानि निशामय
याम्यनासापुटे यस्य वायुर्वाति दिवानिशम्
अहोरात्रं त्र्यहोरात्रं रविर्वहति संततम्
वहेन्नासापुटयुगे दशाहानि निरंतरम्
नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत्
अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत्
सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे
अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिंगलम्