निमीलिताक्षः सत्त्वस्थो दंतैर्दंतान्न संस्पृशेत् 4.1.41.
सन्नियम्येंद्रियग्रामं नातिनीचोच्छ्रितासनः
चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम्
यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते
यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम्
कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत्
मंदो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता
स्वेदं कंपं विषादं च जनयेत्क्रमशस्त्वसौ
विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति
हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत्
तत्प्रत्याययितव्योसौ क्रमेणारण्यहस्तिवत् 4.1.41.
करोति शास्तृनिर्देशं न च तं परिलंघयेत् गृहीतः सेव्यमानस्तु विश्रंभमुपगच्छति
षट्त्रिंशदंगुलो हंसः प्रयाणं कुरुते बहिः
शुद्धिमेति यदा सर्वं नाडीचक्र मनाकुलम्
दृढासनो यथाशक्ति प्राणं चंद्रेण पूरयेत्
स्रवत्पीयूषधारौघं ध्यायंश्चंद्रसमन्वितम्
रविणा प्राणमाकृष्य पूरयेदौदरीं दरीम्
ज्वलज्वलनपुंजाभं शीलयन्नुष्मगुं हृदि
इत्थं मासत्रयाभ्यासादुभयायामसेवनात्
यथेष्टं धारणं वायोरनलस्य प्रदीपनम्
प्राणोदेहगतोवायुरायामस्तन्निबंधनम् 4.1.41.
प्राणायामेऽधमे घर्मः कंपो भवति मध्यमे
प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम्
समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम्
प्राणायामद्विषट्केन प्रत्याहार उदाहृतः
भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम्
समाधेः परतो ज्योतिरनंतं स्वप्रकाशकम्
पवने व्योमसंप्राप्ते ध्वनिरुत्पद्यते महान्
प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत्
हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः