विषयेंद्रिय संयोगो योग इत्यप्यपंडितैः
दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते 4.1.41.
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि
बहिर्मुखानि सर्वाणि कृत्वा खान्यंतराणि वै
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत्
यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते
स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा
नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत्
क्षणमप्येकमुदकं यथा न स्थिरतामियात्
अतोऽनिलं निरुंधीत चित्तस्य स्थैर्य हेतवे
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा
आसनानीह तावंति यावंत्यो जीवयो नयः 4.1.41.
एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्
दक्षिणं चरणं न्यस्य वामोरूपरि योगवित्
कराभ्यां धारयेत्पश्चादंगुष्ठौ दृढबंधवित्
अथवा ह्यासने यस्मिन्सुखमस्योपजायते
न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः
केशभस्मतुषांगार कीकसादि प्रदूषिते
सर्वबाधाविरहिते सर्वेंद्रियसुखावहे
नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः
निमीलिताक्षः सत्त्वस्थो दंतैर्दंतान्न संस्पृशेत् 4.1.41.
सन्नियम्येंद्रियग्रामं नातिनीचोच्छ्रितासनः
चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम्
यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते
यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम्
कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत्
मंदो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता
स्वेदं कंपं विषादं च जनयेत्क्रमशस्त्वसौ
विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति
हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत्