श्रुति स्मृति पुराणं च विद्योपनिषदस्तथा
वेदानुवचनं ज्ञात्वा ब्रह्मचर्य तपो दमः 4.1.41.
स हि सर्वैर्विजिज्ञास्य आत्मैवाश्रमवर्तिभिः
आत्मज्ञानेन मुक्तिः स्यात्तच्च योगादृते नहि
नारण्यसंश्रयाद्योगो न नानाग्रंथ चिंतनात्
न च पद्मासनाद्योगो न वा घ्राणाग्रवीक्षणात्
अभियोगात्सदाभ्यासात्तत्रैव च विनिश्चयात्
आत्मक्रीडस्य सततं सदात्ममिथुनस्य च
अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति
संयोगस्त्वात्ममनसोर्योग इत्युच्यते बुधैः
विषयेंद्रिय संयोगो योग इत्यप्यपंडितैः
दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते 4.1.41.
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि
बहिर्मुखानि सर्वाणि कृत्वा खान्यंतराणि वै
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत्
यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते
स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा
नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत्
क्षणमप्येकमुदकं यथा न स्थिरतामियात्
अतोऽनिलं निरुंधीत चित्तस्य स्थैर्य हेतवे
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा
आसनानीह तावंति यावंत्यो जीवयो नयः 4.1.41.
एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्
दक्षिणं चरणं न्यस्य वामोरूपरि योगवित्
कराभ्यां धारयेत्पश्चादंगुष्ठौ दृढबंधवित्
अथवा ह्यासने यस्मिन्सुखमस्योपजायते
न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः
केशभस्मतुषांगार कीकसादि प्रदूषिते
सर्वबाधाविरहिते सर्वेंद्रियसुखावहे
नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः