ग्राम्याणि फलमूलानि फालजान्नं च संत्यजेत्
सद्यः प्रक्षालको वा स्यादथवा माससंचयी
नक्ताश्ये कांतराशी वा षष्ठकालाशनोपि वा ।।4.1.41.
वैखानस मतस्थस्तु फलमूलाशनोपि वा
अग्निमात्मनि चाधाय विचरेदनिकेतनः
ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने
अतिवाह्यायुषोभागं तृतीयमिति कानने
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि
एक एव चरेन्नित्यमनग्निरनिकेतनः
जीवितं मरणं वाथ नाभिकांक्षेत्क्वचिद्यतिः
सर्वत्र ममता शून्यः सर्वत्र समतायुतः
ध्यानं शौचं तथा भिक्षा नित्यमेकांतशीलता 4.1.41.
वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित्
गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम्
चरेदात्मसहायश्च निरपेक्षो निराश्रयः
कुसुंभवासा दंडाढ्यो भिक्षाशी ख्यातिवर्जितः
न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन
गोसहस्रवधं पापं श्रुतिरेषा सनातनी
कोटिद्वयं ब्रह्मकल्पं कुंभीपाकी न संशयः
विधूमेसन्न मुसले व्यंगारे भुक्तवज्जने
अल्पाहारो रहःस्थायी त्त्विंद्रियार्थेष्वलोलुपः
आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् 4.1.41.
संचितं यद्ग्रहस्थेन पापमामरणांतिकम्
दृष्ट्वा जराभिभवनमसह्यं रोगपीडितम्
नानायोनि निवासं च वियोगं च प्रियैः सह
पुनर्निरयसंवासंनानानरकयातनाः
देहेष्वनित्यतां दृष्ट्वा नित्यता परमात्मनः
करपात्रीति विख्याता भिक्षापात्रविवर्जिता
आश्रमांश्चतुरस्त्वेवं क्रमादासेव्य पंडितः
असंयतः कुबुद्धीनामात्मा बंधाय कल्पते