अहोरात्रोषितो भूत्वा पंचगव्येन शुध्यति
न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्या वसथप्रियस्य 4.1.40.
स सर्वतीर्थसुस्नातः स सर्वक्रतुदीक्षितः
वलीपलितसंयुक्तस्तृतीयाश्रममाविशेत्
अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च
वसानश्चर्मचीराणि साग्निर्मुन्यन्नवर्तनः
शाकमूलफलैर्वापि पंचयज्ञन्न हापयेत्
अनादाता च दाता च दांतः स्वाध्यायतत्परः
मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत्
वर्जयेच्छेलुशिग्रू च कवकं पललं मधु
ग्राम्याणि फलमूलानि फालजान्नं च संत्यजेत्
सद्यः प्रक्षालको वा स्यादथवा माससंचयी
नक्ताश्ये कांतराशी वा षष्ठकालाशनोपि वा ।।4.1.41.
वैखानस मतस्थस्तु फलमूलाशनोपि वा
अग्निमात्मनि चाधाय विचरेदनिकेतनः
ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने
अतिवाह्यायुषोभागं तृतीयमिति कानने
ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि
एक एव चरेन्नित्यमनग्निरनिकेतनः
जीवितं मरणं वाथ नाभिकांक्षेत्क्वचिद्यतिः
सर्वत्र ममता शून्यः सर्वत्र समतायुतः
ध्यानं शौचं तथा भिक्षा नित्यमेकांतशीलता 4.1.41.
वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित्
गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम्
चरेदात्मसहायश्च निरपेक्षो निराश्रयः
कुसुंभवासा दंडाढ्यो भिक्षाशी ख्यातिवर्जितः
न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन
गोसहस्रवधं पापं श्रुतिरेषा सनातनी
कोटिद्वयं ब्रह्मकल्पं कुंभीपाकी न संशयः
विधूमेसन्न मुसले व्यंगारे भुक्तवज्जने