कानि तीर्थानि मुख्यानि ह्यर्बुदे संति पर्वते
अर्बुदस्य द्विजश्रेष्ठा माहात्म्यं च यथा श्रुतम् ॥ 7.3.1.
वसिष्ठो नाम देवर्षिः पितामहसमुद्भवः
नियतो नियताहारः सर्वभूतहिते रतः
पंचाग्निसाधको ग्रीष्मे जपहोमपरायणः नंदिनीति सुविख्याता सा वै कामदुघा शुभा
सा कदाचिद्धरापृष्ठे भ्रममाणा तृणाशया
एतस्मिन्नेव काले तु भगवांस्तीक्ष्णदीधितिः
तस्याः क्षीरेण नित्यं स सायं प्रातर्द्विजो मुनिः
अथ चिंतापरो विप्रः प्रायश्चित्तभयाद्ध्रुवम्
स तच्छ्वभ्रमथासाद्य भूंभारावमथाशृणोत्
अहं होमस्य चोद्वेगान्निःसृतस्त्वामवेक्षितुम्
पतितात्र विभो त्राहि कृच्छ्रादस्मात्सुदुःसहात् 7.3.1.
सरस्वतीं समादध्यौ नदीं त्रैलोक्यपावनीम्
श्वभ्रं तत्पूरयामास समंताद्विमलैर्जलैः
संहृष्टा मुनिना सार्द्धं ययावाश्रमसम्मुखम्
स दृष्ट्वा श्वभ्रमध्यं तं गंभीरं च महामुनिः
तस्य चिंतयतो विप्रा बुद्धिरेषोदपद्यत तस्माद्गच्छाम्यहं शीघ्रं हिमवन्तं नगोत्तमम्
स एव पर्वतं चात्र प्रेषयिष्यति भूधरः
ततो जगाम स मुनिर्हिमवन्तं नगोत्तमम् अर्घ्यपाद्यादिसंस्कारैः संपूज्य इदमब्रवीत्
स्वागतं ते मुनिश्रेष्ठ सफलं मेऽद्य जीवितम्
ब्रूहि कार्यं मुनिश्रेष्ठ अपि जीवितमात्मनः
अगाधं नन्दिनी तत्र पतिता धेनुरुत्तमा ॥ 7.3.1.
यत्नादाकर्षिता तस्माद्भूयः पतनजाद्भयात्
तस्मात्कञ्चिन्नगश्रेष्ठं तत्र प्रेषय भूधरम्
तत्प्रमाणं नगं कंचित्प्रेषयामि विचिंत्य च
न संख्या विद्यतेऽधस्तात्तस्य पर्वतसत्तम
अभूत्कौतूहलं तेन सर्वं विस्तरतो वद
अहिल्या दयिता तस्य धर्मपत्नी यशस्विनी
शिष्यानध्यापयामास स मुनिः शतशस्तदा
तस्यान्योऽपि च यः शिष्यो गुरुभक्तिपरायणः