आरोप्य शूद्रां शयने विप्रो गच्छेदधोगतिम्
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु
जामयो यानि गेहानि शपंत्यप्रतिपूजिताः
तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः
यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः
यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति 4.1.40.
अहुतं च हुतं चैव प्रहुतं प्राशितं तथा
जपोऽहुतोहुतो होमः प्रहुतो भौतिको बलिः
पंचयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति
ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम्
जातमात्रः शिशुस्तावद्यावदष्टौ समाः स्मृताः
भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम्
मातापितागुरुपत्नीः त्वपत्यानि समाश्रिताः
स जीवति पुमान्योऽत्र बहुभिश्चोपजीव्यते
दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया
विभागशीलसंयुक्तो दयावांश्च क्षमायुतः 4.1.40.
शर्वरीमध्य यामौ यौ हुतशेषं च यद्धविः
नवैतानि गृहस्थस्य कार्याण्यभ्यागते सदा
अभ्युत्थानमिहायात सस्नेहं पूर्वभाषणम्
तथेषद्व्यययुक्तानि कार्याण्येतानि वै नव
शय्यातृणजलाभ्यंग दीपा गार्हस्थ्य सिद्धिदाः
पैशुन्यं परदाराश्च द्रोहः क्रोधानृताप्रियम्
नवावश्यककर्माणि कार्याणि प्रतिवासरम्
वेश्वदेवं तथातिथ्यं नवमं पितृतर्पणम्
जन्मर्क्षं मैथुनं मंत्रो गृहच्छिद्रं च वंचनम्
नवैतानि प्रकाश्यानि रहः पापमकुत्सितम् कन्यादानं गुणोत्कर्षो नान्यत्केनापि कुत्रचित् ।। 4.1.40.
पात्र मित्र विनीतेषु दीनानाथोपकारिषु
निष्फलं नवसूत्सृष्टं चाटचारणतस्करे
आपस्त्वपि न देयानि नववस्तूनि सर्वथा
न्यासाधीकुलवृत्तिं च निक्षेपं स्त्रीधनं सुतम्