शयनासनयानानि कुणपं स्त्रीमुखं कुशाः
अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः
बलात्कारोपभुक्ता वा चोरहस्तगतापि वा
आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्य भस्मना
मनसापि हि या नेह चिंतयेत्पुरुषांतरम्
पिता पितामहो भ्राता सकुल्यो जननी तथा 4.1.40.
अप्रयच्छन्समाप्नोति भूणहत्यामृतावृतौ
हृताधिकारां मलिनां पिंडमात्रोपजीविनीम्
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते
शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृते
आरोप्य शूद्रां शयने विप्रो गच्छेदधोगतिम्
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु
जामयो यानि गेहानि शपंत्यप्रतिपूजिताः
तदभ्यर्च्याः सुवासिन्यो भूषणाच्छादनाशनैः
यत्र नार्यः प्रमुदिता भूषणाच्छादनाशनैः
यत्र तुष्यति भर्त्रा स्त्री स्त्रिया भर्ता च तुष्यति 4.1.40.
अहुतं च हुतं चैव प्रहुतं प्राशितं तथा
जपोऽहुतोहुतो होमः प्रहुतो भौतिको बलिः
पंचयज्ञानिमान्कुर्वन्ब्राह्मणो नावसीदति
ब्राह्मणं कुशलं पृच्छेद्बाहुजातमनामयम्
जातमात्रः शिशुस्तावद्यावदष्टौ समाः स्मृताः
भरणं पोष्यवर्गस्य दृष्टादृष्टफलोदयम्
मातापितागुरुपत्नीः त्वपत्यानि समाश्रिताः
स जीवति पुमान्योऽत्र बहुभिश्चोपजीव्यते
दीनानाथविशिष्टेभ्यो दातव्यं भूतिकाम्यया
विभागशीलसंयुक्तो दयावांश्च क्षमायुतः 4.1.40.
शर्वरीमध्य यामौ यौ हुतशेषं च यद्धविः
नवैतानि गृहस्थस्य कार्याण्यभ्यागते सदा
अभ्युत्थानमिहायात सस्नेहं पूर्वभाषणम्
तथेषद्व्यययुक्तानि कार्याण्येतानि वै नव