यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता
सुखं वा यदि वा चान्यद्यत्किंचित्क्रियते परे
न क्लेशेन विना द्रव्यमर्थहीने कुतः क्रियाः
सुखं हि सर्वैराकांक्ष्यं तच्च धर्मसमुद्भवम्
न्यायागतेन द्रव्येण कर्तव्यं पारलौकिकम्
विधिहीनं तथाऽपात्रे यो ददाति प्रतिग्रहम्
व्यसनार्थे कुटुंबार्थे यदृणार्थे च दीयते 4.1.40.
मातापितृविहीनं यो मौंजीपाणिग्रहादिभिः
अग्निहोत्रैर्न तच्छ्रेयो नाग्निष्टोमादिभिर्मखैः
यो ह्यनाथस्य विप्रस्य पाणिं ग्राहयते कृती
पितृगेहे तु या कन्या रजः पश्येदसंस्कृता
यस्तां परिणयेन्मोहात्स भवेद्वृषलीपतिः
विज्ञाय दोषमुभयोः कन्यायाश्च वरस्य च
स्त्रियः पवित्राः सततं नैता दुष्यंति केनचित्
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगंधर्व वह्निभिः
स्त्रीणां शौचं ददौ सोमः पावकः सर्वमेध्यताम्
कन्यां भुंक्ते रजःकालेऽग्निः शशी लोमदर्शने 4.1.40.
दृश्यरोमात्वपत्यघ्नी कुलघ्न्युद्गतयौवना
कन्यादानफलप्रेप्सुस्तस्माद्द द्यादनग्निकाम्
कन्यामभुक्तां सोमाद्यैर्ददद्दानफलं लभेत्
शयनासनयानानि कुणपं स्त्रीमुखं कुशाः
अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः
बलात्कारोपभुक्ता वा चोरहस्तगतापि वा
आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्य भस्मना
मनसापि हि या नेह चिंतयेत्पुरुषांतरम्
पिता पितामहो भ्राता सकुल्यो जननी तथा 4.1.40.
अप्रयच्छन्समाप्नोति भूणहत्यामृतावृतौ
हृताधिकारां मलिनां पिंडमात्रोपजीविनीम्
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते
शूद्रस्य भार्या शूद्रैव सा च स्वा च विशः स्मृते