किं बिभेति नरो धीरः कृतादघशिलोच्चयात्
क्वाविमुक्तं महालिंगं चतुर्वर्गफलोदयम्
अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते
द्रष्टारमविमुक्तस्य दृष्ट्वा दंडधरो यमः
धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ
त्रिसंध्यमविमुक्तेशं यो जपेन्नियतः शुचिः
अविमुक्तं महालिंगं दृष्ट्वा ग्रामांतरं व्रजेत्
अथो किमसि शुश्रूषुः कथयिष्यामि तत्पुनः
अतीव सुश्रुते जाते तथापि न धिनोम्यहम्
अविमुक्तेश्वरं लिंगं क्षेत्रं चाप्यविमुक्तकम्
स्वश्रेयो दातुरेतस्या विमुक्तस्य महामते
समीहितार्थ संसिद्धिर्लभ्यते पुण्यभारतः
श्रुतिवर्त्मजुषः पुंसः संस्पर्शान्नश्यतो मुने
वर्जितस्य विधानेन प्रोक्तस्याकरणेन वै
निषिद्धाचरणं तस्मात्कथयिष्ये तवाग्रतः
पलांडुं विड्वराहं च शेलुं लशुन गृंजने
व्रश्चनान्वृक्षनिर्यासान्पायसापूपशष्कुलीः 4.1.40.
पय ऐकशफं हेयं तथा क्रामेलकाविकम्
टिट्टिभं कलविंकं च हंसं चक्रं प्लवंबकम्
जालपादान्खंजरीटान्बुडित्वा मत्स्यभक्षकान्
हव्यकव्यनियुक्तौ तु भक्ष्यौ पाठीनरोहितौ
श्वाविद्गोधे प्रशस्ते च ज्ञाताश्च मृगपक्षिणः
यज्ञार्थं पशुहिंसा या सा स्वर्ग्या नेतरा क्वचित्
प्राणात्यये क्रतौ श्राद्धे भैषजे विप्रकाम्यया
न तादृशं भवेत्पापं मृगयावृत्तिकांक्षिणः
मखार्थं ब्रह्मणा सृष्टाः पशु द्रुम मृगौषधीः
पितृदेवक्रतुकृते मधुपर्कार्थमेव च 4.1.40.
यो जंतूनात्मपुष्ट्यर्थं हिनस्ति ज्ञानदुर्बलः
भोक्तानुमंता संस्कर्ता क्रयिविक्रयि हिंसकाः
प्रत्यब्दमश्वमेधेन शतं वर्षाणि यो यजेत्