अविमुक्तेश नामापि श्रुत्वा जन्मार्जितादघात्
अविमुक्तेश्वरं लिंगं स्मृत्वा दूरगतोपि च
अविमुक्ते महाक्षेत्रेऽविमुक्तमवलोक्य च
यत्कृतं ज्ञानविभ्रंशादेनः पंचसु जन्मसु
अर्चयित्वा महालिंगमविमुक्तेश्वरं नरः
स्तुत्वा नत्वार्चयित्वा च यथाशक्ति यथामति
अनादिमदिदं लिंगं स्वयं विश्वेश्वरार्चितम्
संति लिंगान्यनेकानि पुण्येष्वायतनेषु च
कृष्णायां माघभूतायामविमुक्तेश जागरात्
नानायतनलिंगानि चतुर्वर्गप्रदान्यपि 4.1.39.
किं बिभेति नरो धीरः कृतादघशिलोच्चयात्
क्वाविमुक्तं महालिंगं चतुर्वर्गफलोदयम्
अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते
द्रष्टारमविमुक्तस्य दृष्ट्वा दंडधरो यमः
धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ
त्रिसंध्यमविमुक्तेशं यो जपेन्नियतः शुचिः
अविमुक्तं महालिंगं दृष्ट्वा ग्रामांतरं व्रजेत्
अथो किमसि शुश्रूषुः कथयिष्यामि तत्पुनः
अतीव सुश्रुते जाते तथापि न धिनोम्यहम्
अविमुक्तेश्वरं लिंगं क्षेत्रं चाप्यविमुक्तकम्
स्वश्रेयो दातुरेतस्या विमुक्तस्य महामते
समीहितार्थ संसिद्धिर्लभ्यते पुण्यभारतः
श्रुतिवर्त्मजुषः पुंसः संस्पर्शान्नश्यतो मुने
वर्जितस्य विधानेन प्रोक्तस्याकरणेन वै
निषिद्धाचरणं तस्मात्कथयिष्ये तवाग्रतः
पलांडुं विड्वराहं च शेलुं लशुन गृंजने
व्रश्चनान्वृक्षनिर्यासान्पायसापूपशष्कुलीः 4.1.40.
पय ऐकशफं हेयं तथा क्रामेलकाविकम्
टिट्टिभं कलविंकं च हंसं चक्रं प्लवंबकम्
जालपादान्खंजरीटान्बुडित्वा मत्स्यभक्षकान्