लोकेश्वर समायाहि मंदरो नाम भूधरः
यावस्तस्मै वरं दातुं बहुकालं तपस्यते
जगाम वृषमारुह्य मंदरो यत्र तिष्ठति
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम
प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत्
सर्वज्ञोपि कथं नाम न वेत्थ मम वांछितम्
सर्वेषां हृदयानंद शर्वसर्वगसर्वकृत्
याचकायातिशोच्याय प्रणतार्तिप्रभंजक
कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः
सर्वेषां सर्वदः शंभुः क्षणं यावद्विचिंतयेत् प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः ।। 4.1.39.
कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम्
प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया
अराजकं महच्चासीद्दुरवस्थमभूज्जगत्
मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः
तवाज्ञया चेत्स्थास्यंति सर्वे दिविषदो दिवि
तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत्
तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः
मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम्
विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः
तथा बहुतिथं कालं द्वीपोभूत्सोपि मंदरः 4.1.39.
निजमूर्तिमयं लिंगमविज्ञातं विधेरपि
विपन्नानां च जंतूनां दातुं नैःश्रेयसीं श्रियम्
मंदराद्रिगतेनापि क्षेत्रं नैतत्पिनाकिना
पुरा नंदवनं नाम क्षेत्रमेतत्प्रकीर्तितम्
नामाविमुक्तमभवदुभयोः क्षेत्रलिंगयोः
अविमुक्तेश्वरं लिंगं दृष्ट्वा क्षेत्रेऽविमुक्तके
अर्चंति विश्वे विश्वेशं विश्वेशोर्चति विश्वकृत्
पुरा न स्थापितं लिंगं कस्यचित्केनचित्क्वचित्
आकारमविमुक्तस्य दृष्ट्वा ब्रह्माच्युतादयः
आदिलिंगमिदं प्रोक्तमविमुक्तेश्वरं महत् 4.1.39.