कथं नान्ये च राजानो मां कथं कथ्यते त्वया
पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः
महाप्रसाद इत्याज्ञां त्वदीयां मूर्ध्न्युपाददे
किंचिद्विज्ञप्तुकामोहं तन्मदर्थं करोषि चेत्
अविलंबेन तद्ब्रूहि कृतं मन्यस्व पार्थिव
तदादिविष(प?)दो देवा दिवि तिष्ठंतु मा भुवि
देवेषु दिवितिष्ठत्सु मयि तिष्ठति भूतले
तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः
मा गच्छंत्विह वै नागा नराः स्वस्था भवंत्वितः
एतस्मिन्नंतरे ब्रह्मा विश्वेशं प्रणिपत्य ह 4.1.39.
लोकेश्वर समायाहि मंदरो नाम भूधरः
यावस्तस्मै वरं दातुं बहुकालं तपस्यते
जगाम वृषमारुह्य मंदरो यत्र तिष्ठति
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम
प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत्
सर्वज्ञोपि कथं नाम न वेत्थ मम वांछितम्
सर्वेषां हृदयानंद शर्वसर्वगसर्वकृत्
याचकायातिशोच्याय प्रणतार्तिप्रभंजक
कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः
सर्वेषां सर्वदः शंभुः क्षणं यावद्विचिंतयेत् प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः ।। 4.1.39.
कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम्
प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया
अराजकं महच्चासीद्दुरवस्थमभूज्जगत्
मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः
तवाज्ञया चेत्स्थास्यंति सर्वे दिविषदो दिवि
तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत्
तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः
मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम्
विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः
तथा बहुतिथं कालं द्वीपोभूत्सोपि मंदरः 4.1.39.