इदमेव तपोत्युग्रं यदिंद्रिय विलोलताम्
मासि मासि यदाप्येत व्रताच्चांद्रायणात्फलम्
मासोपवासादन्यत्र यत्फलं समुपार्ज्यते
चातुर्मास्य व्रतात्प्रोक्तं यदन्यत्र महाफलम्
षण्मासान्न परित्यागाद्यदन्यत्र फलं लभेत्
वर्षं कृत्वोपवासानि लभेदन्यत्र यद्व्रती
मासिमासि कुशाग्रांबु पानादन्यत्र यत्फलम्
अनंतो महिमा काश्याः कस्तं वर्णयितुं प्रभुः
शंभुस्तत्किंचिदाचष्टे म्रियमाणस्य जन्मिनः
स्मारं स्मारं स्मररिपोः पुरीं त्वमिव शंकरः 4.1.39.
अगस्त्य उवाच त्याजितोहं पुरीं काशीं हरो त्याक्षीत्कुतः प्रभुः
पराधीनोहमिव किं देवदेवः पिनाकवान्
तत्याज च यथा स्थाणुः काशीं विध्युपरोधतः
प्रार्थितस्त्वं यथा लेखैः परोपकृतये मुने
प्रार्थितोभूत्किमर्थं च तन्मे ब्रूहि षडानन
अनावृष्टिरभूद्विप्र सर्वभूतप्रकंपिनी
तया तु षष्टिहायिन्या पीडिताः प्राणिनोऽखिलाः
महानिम्नेषु कच्छेषु मुनिवृत्त्या जनाः स्थिताः
क्रव्यादा एव सर्वेषु नगरेषु पुरेषु च
चौरा एव महाचौरैरुल्लुठ्यंत इतस्ततः 4.1.39.
अराजके समुत्पन्ने लोकेऽत्याहितशंसिनि
चिंतामवाप महती जगद्योनिः प्रजाक्षयात्
तासु क्षीणासु संक्षीणाः सर्वे यज्ञभुजोऽभवन्
अविमुक्ते महाक्षेत्रे तपस्यन्निश्चलेंद्रियः
रिपुंजय इति ख्यातो राजा परपुरंजयः
उवाच वचनं राजन्रिपुंजय महामते
नागकन्यां नागराजः पत्न्यर्थं ते प्रदास्यति
दिवोपि देवा दास्यंति रत्नानि कुसुमानि च
दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि
परमेष्ठिवचः श्रुत्वा ततोसौ राजसत्तमः 4.1.39.