सत्यं ब्रूयात्प्रियं ब्रूयान्नब्रूयात्सत्यमप्रियम्
भद्रमेव वदेन्नित्यं भद्रमेव विचिंतयेत्
रूपवित्तकुलैर्हीनान्सुधीर्नाधिक्षिपेन्नरान्
वाचोवेगं मनोवेगं जिह्वावेगं च वर्जयेत्
गोब्राह्मणाग्नीनुच्छिष्ट पाणिना नैव संस्पृशेत्
गुह्यजान्यपि लोमानि तत्स्पर्शादशुचिर्भवेत्
निष्ठीवनं च श्लेष्माणं गृहाद्दूरं विनिक्षिपेत् अद्रोहवत्या बुद्ध्या च पूर्वं जन्म स्मरेद्द्विजः
वृद्धान्प्रयत्नाद्वंदेत दद्यात्तेषां स्वमासनम् 4.1.38.
श्रुति भूदेव देवानां नृप साधु तपस्विनाम्
न मनुष्यस्तुतिं कुर्यान्नात्मानमपमानयेत्
अधर्मादेधते पूर्वं विद्वेष्टॄनपि संजयेत्
उद्धृत्य पंच मृत्पिंडान्स्नायात्परजलाशये
श्रद्धया पात्रमासाद्य यत्किंचिद्दीयते वसु
भूप्रदो मंडलाधीशः सर्वत्रसुखिनोन्नदाः
प्रदीपदो निर्मलाक्षो गोदाताऽर्यमलोकभाक्
वेश्मदो ऽत्युच्चसौधेशो वस्त्रदश्चंद्रलो कभाक्
सुभार्यः शिबिका दाता सुपर्यंक प्रदोपि च
ब्रह्मदो ब्रह्मलोकेज्यो ब्रह्मदः सर्वदो मतः 4.1.38.
सा च वाराणसी लभ्या सदाचारवता सदा 4.1.38.
इति श्रुत्वा वचः स्कंदो मैत्रावरुणिभाषितम्
स्कंद उवाच नैःश्रेयस्याः श्रियोहेतुमविमुक्त समाश्रयाम्
परं ब्रह्म यदाम्नातं निष्प्रपंचं निरात्मकम्
तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो
भवो ध्रुवं यदत्रैव मोचयेत्तं निशामय
सुमहद्भिस्तपोभिर्वा शिवोन्यत्र विमोचयेत्
न तपांस्यतिदीर्घाणि काश्यां मुक्त्यै शिवोर्थयेत्
अयमेव महायोग उपयोगस्त्विहा परः
यद्दत्तं सुमनोवृत्त्या महादानं तदत्र वै
स्नात्वा गंगामृते शुद्धे तप एतदिहोत्तमम् तुला पुरुष एतस्याः कलां नार्हति षोडशीम्
हृदि संचिंत्य विश्वेशं क्षणं यद्विनिमील्यते 4.1.39.