प्रावृत्य वाससा मौलिं मौनी विण्मूत्रमुत्सृजेत्
भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम्
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्
न संविशेत संध्यायां प्रत्यक्सौम्यशिरा अपि
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्
पंथानं नैकलो यायान्न वार्यंजलिना पिबेत्
स्त्रीधर्मिण्या नाभिवदेन्नाद्यादातृप्ति रात्रिषु
श्राद्धं कृत्वा पर श्राद्धे योऽश्नीयाज्ज्ञानवर्जितः 4.1.38.
न धारयेदन्यभुक्तं वासश्चो पानहावपि
आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम्
स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि
नोत्पाटयेल्लोमनखं दशनेन कदाचन
शुभायन यदायत्यां त्यजेत्तत्कर्म यत्नतः
क्रीडेन्नाक्षैः सहासीत न धर्मघ्नैर्न रोगिभिः
आर्द्रपादकरास्योश्नन्दीर्घकालं च जीवति
शयनस्थो न चाश्नीयान्नपिबेन्न जपेद्द्विजः
सर्वं तिलमयं नाद्यात्सायं शर्माभिलाषुकः
नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः 4.1.38.
श्रावयेद्वैदिकं मंत्रं न शूद्राय कदाचन
धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत्
कंडूयनं हि शिरसः पाणिभ्यां न शुभं मतम्
अशास्त्रवर्तिनो भूपाल्लुब्धात्कृत्वा प्रतिग्रहम्
अकालविद्युत्स्तनिते वर्षर्तौ पांसुवर्षणे
उल्कापाते च भूकंपे दिग्दाहे मध्यरात्रिषु
दर्शाष्टकासु भूतायां श्राद्धिकं प्रतिगृह्य च
खरोष्ट्रक्रोष्ट्र विरुते समवाये रुदत्यपि
आरण्यकमधीत्यापि बाणसाम्नोरपि ध्वनौ
कृतांतरायो न पठेद्भेकाखु श्वाहि बभ्रुभिः 4.1.38.
अनायुष्यकरं चैव परदारोपसर्पणम्
पूर्वर्द्धिभिः परित्यक्तमात्मानं नावमानयेत्