षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि
उदयं तं न चेक्षेत नास्तं यंतं न मध्यगम्
न वीक्षेतात्ममनोरूपमाशुधावेन्न वर्षति
देवतायतनं विप्रं धेनुं मधुमृदं घृतम्
अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम्
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया
नाश्नंतीं स्त्रीं समीक्षेत तेजस्कामो द्विजोत्तमः
पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः 4.1.38.
न गर्तेषु ससत्वेषु न तिष्ठन्न व्रजन्नपि
अभिपश्यन्न कुर्वीत मलमूत्रविसर्जनम्
प्रावृत्य वाससा मौलिं मौनी विण्मूत्रमुत्सृजेत्
भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम्
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्
न संविशेत संध्यायां प्रत्यक्सौम्यशिरा अपि
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्
पंथानं नैकलो यायान्न वार्यंजलिना पिबेत्
स्त्रीधर्मिण्या नाभिवदेन्नाद्यादातृप्ति रात्रिषु
श्राद्धं कृत्वा पर श्राद्धे योऽश्नीयाज्ज्ञानवर्जितः 4.1.38.
न धारयेदन्यभुक्तं वासश्चो पानहावपि
आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम्
स्नात्वा न मार्जयेद्गात्रं विसृजेन्न शिखां पथि
नोत्पाटयेल्लोमनखं दशनेन कदाचन
शुभायन यदायत्यां त्यजेत्तत्कर्म यत्नतः
क्रीडेन्नाक्षैः सहासीत न धर्मघ्नैर्न रोगिभिः
आर्द्रपादकरास्योश्नन्दीर्घकालं च जीवति
शयनस्थो न चाश्नीयान्नपिबेन्न जपेद्द्विजः
सर्वं तिलमयं नाद्यात्सायं शर्माभिलाषुकः
नाधितिष्ठेत्तुषांगार भस्मकेशकपालिकाः 4.1.38.
श्रावयेद्वैदिकं मंत्रं न शूद्राय कदाचन
धर्मोपदेशः शूद्राणां स्वश्रेयः प्रतिघातयेत्