भुंजानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत्
वैश्वदेवांत संप्राप्तः सूर्योढो वातिथिः स्मृतः
बलिपात्रकरे विप्रे यद्यन्योतिथिरागतः
कुमाराश्च स्ववासिन्यो गर्भिण्योऽतिरुजान्विताः
पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही
माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाचरेत्
एतत्सायंतनं नाम वैश्वदेवं गृहाश्रमे
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः 4.1.38.
अकृत्वा वैश्वदेवं तु भुंजते ये द्विजाधमाः
वेदोदितं स्वकं कर्म नित्यं कुर्यादतंद्रितः
षष्ठ्यष्टम्योर्वसेत्पापं तैले मांसे सदैव हि
उदयं तं न चेक्षेत नास्तं यंतं न मध्यगम्
न वीक्षेतात्ममनोरूपमाशुधावेन्न वर्षति
देवतायतनं विप्रं धेनुं मधुमृदं घृतम्
अश्वत्थं चैत्यवृक्षं च गुरुं जलभृतं घटम्
रजस्वलां न सेवेत नाश्नीयात्सह भार्यया
नाश्नंतीं स्त्रीं समीक्षेत तेजस्कामो द्विजोत्तमः
पक्वान्नं चापि नो मांसं दीर्घकालं जिजीविषुः 4.1.38.
न गर्तेषु ससत्वेषु न तिष्ठन्न व्रजन्नपि
अभिपश्यन्न कुर्वीत मलमूत्रविसर्जनम्
प्रावृत्य वाससा मौलिं मौनी विण्मूत्रमुत्सृजेत्
भीतिषु प्राणबाधायां कुर्यान्मलविसर्जनम्
नांघ्री प्रतापयेदग्नौ न वस्त्वशुचि निक्षिपेत्
न संविशेत संध्यायां प्रत्यक्सौम्यशिरा अपि
नाचक्षीत धयंतीं गां नेंद्रचापं प्रदर्शयेत्
पंथानं नैकलो यायान्न वार्यंजलिना पिबेत्
स्त्रीधर्मिण्या नाभिवदेन्नाद्यादातृप्ति रात्रिषु
श्राद्धं कृत्वा पर श्राद्धे योऽश्नीयाज्ज्ञानवर्जितः 4.1.38.
न धारयेदन्यभुक्तं वासश्चो पानहावपि
आरोहणं गवां पृष्ठे प्रेतधूमं सरित्तरम्