तत्र गच्छन्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात्
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः
त्यक्त्वा चंद्रमसं दुःस्थं मघां पौष्णं विहाय च शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम्
आर्षे विवाहे गोद्वंद्वं यदुक्तं तन्न शस्यते
अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने
स्त्रीधनान्युपजीवंति ये मोहादिह बांधवाः
पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र स्त्रिया पतिः 4.1.38.
वाणिज्यं नृपतेः सेवा वेदानध्यापनं तथा
कुर्याद्वैवाहिके वह्नौ गृह्यकर्मान्वहं गृही
गृहस्थाश्रमिणः पंच सूना कर्म दिने दिने
तासां च पंचसूनानां निराकरणहेतवः
पाठनं ब्रह्मयज्ञः स्यात्तर्पणं च पितृ क्रतुः
पितृप्रीतिं प्रकुर्वाणः कुर्वीत श्राद्धमन्वहम्
गोदानेन च यत्पुण्यं पात्राय विधिपूर्वकम्
तपोविद्यासमिद्दीप्ते हुतं विप्रास्य पावके
अनर्चितोऽतिथिर्गेहाद्भग्नाशो यस्य गच्छति
सांत्वपूर्वाणि वाक्यानि शय्यार्थे भूस्तृणोदके 4.1.38.
गृहस्थः परपाकादी प्रेत्य तत्पशुतां व्रजेत्
आदित्योढोऽतिथिः सायं सत्कर्तव्यः प्रयत्नतः
भुंजानोऽतिथिशेषान्नमिहायुर्धनभाग्भवेत्
वैश्वदेवांत संप्राप्तः सूर्योढो वातिथिः स्मृतः
बलिपात्रकरे विप्रे यद्यन्योतिथिरागतः
कुमाराश्च स्ववासिन्यो गर्भिण्योऽतिरुजान्विताः
पितृदेवमनुष्येभ्यो दत्त्वाश्नात्यमृतं गृही
माध्याह्निकं वैश्वदेवं गृहस्थः स्वयमाचरेत्
एतत्सायंतनं नाम वैश्वदेवं गृहाश्रमे
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः 4.1.38.
अकृत्वा वैश्वदेवं तु भुंजते ये द्विजाधमाः
वेदोदितं स्वकं कर्म नित्यं कुर्यादतंद्रितः