इतिवादिनमत्यंतं दीनमेव दयानिधिः
ताः सर्वाः सर्वजंतूनामत्यर्थं परिकल्पिताः
पुरा पुरंदरस्त्वं हि कैलासशिखरे स्थितम्
क्षणं गलितगर्वस्त्वं स्तंभना व्रीडितस्तदा
आदिष्टस्त्वं मया वज्रिन्नवतीर्यावनिं भवान्
जातं ततः प्रभावेण क्षेत्रमेतन्मदास्पदम्
अधुनातिसपर्याभिस्त्वत्कृताभिरहर्निशम्
खं वायुरनलो वारि भूः सूर्य शशिनौ पुमान्
कालो हि कालयाम्यर्थान्सत्त्वानध्वन एव च 1.3.2.24.
अपर्यंतचिदानंदसिंधोर्मे केचिदूर्मयः
वाणीलक्ष्मीक्षमाश्रद्धाप्रज्ञास्वाहास्वधादयः
इयं मम महाशक्तिर्गौरी माया जगत्प्रसूः
शक्त्यानयान्वितः सर्गरक्षासंहृतिविभ्रमः
अपवाहितमोहस्त्वं महिमा मे विचारय
ततो मद्रूपशालिन्या आधिपत्यं क्षितेर्गतः
पुनः पुरंदरत्वेन भुक्तदिव्यसुखश्चिरम्
नंदिकेश्वर उवाच इत्युक्त्वांतर्हिते देवे राजा वज्रांगदः कृती
इत्थं ते कथितं साधो शिवभक्तविजृंभणम्
किं वाचां विस्तरेणात्र शोणशैलप्रदक्षिणा 1.3.2.24.
विषुवायनसंक्राति व्यतीपातादिपर्वसु
न क्षेत्रमरुणादस्ति नास्ति देवोऽरुणेश्वरात्
इति कथयति नंदिकेश्वरेस्मिन्पुलकितसर्ववपुर्मृकण्डुपुत्रः
अथ तृतीयमर्बुदखण्डं प्रारभ्यते व्यास उवाच ॐनमोनंताय सूक्ष्माय ज्ञानगम्याय वेधसे
मन्वंतराणि सर्वाणि सृष्टिश्चैव पृथग्विधा
अधुना श्रोतुमिच्छामस्तीर्थमाहात्म्यमुत्तमम्
तिस्रः कोट्योऽर्द्धकोटिश्च तेषां संख्या कृता पुरा
क्षेत्राणि सरितश्चैव पर्वताश्च नदा स्तथा
तेषां मध्येऽर्बुदोनाम सर्वपापहरोऽनघः
पुनंति सर्वतीर्थानि स्नानदानादिकैर्यथा
कथं वासिष्ठमाहात्म्यात्प्रथितो धरणीतले