पीताः श्यावाश्च दशनाः स्थूलादीर्घाद्विपंक्तयः
अधस्तादधिकैर्दंतैर्मातरं भक्षयेत्स्फुटम् 4.1.37.
गोक्षीरवर्णविशदे सुस्निग्धे कृष्णपक्ष्मणी 4.1.37.
रोमशेन शिरालेन प्रांशुना रोगिणी मता ।। 4.1.37.
कृष्णः स एव भर्तृघ्न्याः पुंश्चल्याश्च प्रकीर्तितः 4.1.37.
सा पतिं हंति वर्षेण यस्या मध्ये कृकाटिकम् 4.1.37.
अतः सुलक्षणा योषा परिणेया विचक्षणैः 4.1.37.
लक्षणानि मयोक्तानि सुखाय गृहमेधिनाम्
स्कंद उवाच गांधर्वो राक्षसश्चापि पैशाचोऽष्टम उच्यते
स ब्राह्मो वरमाहूय यत्र कन्या स्वलंकृता
यज्ञस्थायर्त्विजे दैवस्तज्जःपाति चतुर्दश
सहोभौ चरतां धर्ममित्युक्त्वा दीयतेर्थिने
चत्वार एते विप्राणां धर्म्याः पाणिग्रहाः स्मृताः
प्रसह्यकन्याहरणाद्राक्षसो निंदितः सताम्
प्रायः क्षत्रविशोरुक्ता गांधर्वासुरराक्षसाः
सवर्णया करो ग्राह्यो धार्यः क्षत्रियया शरः
असवर्णस्त्वेष विधिः स्मृतो दृष्टश्च वेदने
धर्म्यैर्विवाहैर्जायंते धर्म्या एव शतायुषः 4.1.38.
ऋतुकालाभिगमनं धर्मोयं गृहिणः परः
दिवाभिगमनं पुंसामनायुष्यं परं मतम्
तत्र गच्छन्स्त्रियं मोहाद्धर्मात्प्रच्यवते परात्
ऋतुकालाभिगामी यः स्वदारनिरतश्च यः
ऋतुः षोडशयामिन्यश्चतस्रस्ता सुगर्हिताः
त्यक्त्वा चंद्रमसं दुःस्थं मघां पौष्णं विहाय च शुचिं पुत्रं प्रसूयेत पुरुषार्थप्रसाधकम्
आर्षे विवाहे गोद्वंद्वं यदुक्तं तन्न शस्यते
अपत्यविक्रयी कल्पं वसेद्विट्कृमिभोजने
स्त्रीधनान्युपजीवंति ये मोहादिह बांधवाः
पत्या तुष्यति यत्र स्त्री तुष्येद्यत्र स्त्रिया पतिः 4.1.38.
वाणिज्यं नृपतेः सेवा वेदानध्यापनं तथा
कुर्याद्वैवाहिके वह्नौ गृह्यकर्मान्वहं गृही