अंभोज मुकुलाकारमंगुष्ठांगुलिसंमुखम्
मृदुमध्योन्नतं रक्तं तलं पाण्योररंध्रकम् 4.1.37.
विधवा बहुरेखेण विरेखेण दरिद्रिणी
विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम्
रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला
मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा
चक्रवर्तिस्त्रियाः पाणौ नंद्यावर्तः प्रदक्षिणः
तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके
रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम्
चामरांकुशकोदंडै राजपत्नी भवेद्ध्रुवम्
यदि सा पतिहंत्री स्याद्दूरतस्तां त्यजेत्सुधीः नितंबिनी कीर्तिमती त्यागेन पृथिवीतले
कंक जंबूक मंडूक वृक वृश्चिक भोगिनः 4.1.37.
शुभदः सरलोंगुष्ठो वृत्तो वृत्तनखो मृदुः
अंगुल्यश्च सुपर्वाणो दीर्घावृत्ताः क्रमात्कृशाः
अतिह्रस्वाः कृशा वक्रा विरला रोगहेतुकाः
अरुणाः सशिखास्तुंगाः करजाः सुदृशांशुभाः
नखेषु बिंदवः श्वेताः प्रायः स्युः स्वैरिणी स्त्रियाः
अंतर्निमग्नवंशास्थिः पृष्ठिः स्यान्मांसला शुभा
भुग्नेन विनतेनापि सशिरेणापि दुःखिता
शुष्का शिराला रोमाढ्या विशाला कुटिलाशुभा
शस्ता ग्रीवा त्रिरेखांका त्वव्यक्तास्थिः सुसंहता
स्थूलग्रीवा च विधवा वक्रग्रीवा च किंकरी 4.1.37.
चिबुकंद्वयंगुलं शस्तं वृत्तं पीनं सुकोमलम्
हनुश्चिबुकसंलग्ना निर्लोमा सुघनाशुभा
शस्तौ कपोलौ वामाक्ष्याः पीनौ वृत्तौ समुन्नतौ
समं समांसं सुस्निग्धं स्वामोदं वर्तुलं मुखम्
पाटलो वर्तुलः स्निग्धो लेखाभूषितमध्यभूः
कृशः प्रलंबः स्फुटितो रूक्षो दौर्भाग्यसूचकः
मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः
गोक्षीरसन्निभाः स्निग्धा द्वात्रिंशद्दशनाः शुभाः