यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते
उदरेणातितुच्छेन विशिरेण मृदुत्वचा 4.1.37.
कुंभाकारं दरिद्राया जठरं च मृदंगवत्
सुविशालोदरी नारी निरपत्या च दुर्भगा
मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया
कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका
निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम्
विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा
अष्टादशांगुलततमुरः पीवरमुन्नतम्
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ
दक्षिणोन्नत वक्षोजा पुत्रिणी त्वग्रणीर्मता
अरघट्टघटीतुल्यौ कुचौ दौःशील्यसूचकौ 4.1.37.
मूले स्थूलौ क्रमकृशावग्रे तीक्ष्णौ पयोधरौ
सुदृढं चूचुकयुगं शस्तं श्यामं सुवर्तुलम्
पीवराभ्यां च जत्रुभ्यां धनधान्यनिधिर्वधूः
अबद्धावनतौ स्कंधावदीर्घावकृशौ शुभौ
निगूढसंधी स्रस्ताग्रौ शुभावंसौ सुसंहतौ
कक्षेसु सूक्ष्मरोमे तु तुंगे स्निग्धे च मांसले
स्यातां दोषौ सुनिर्दोषौ गूढास्थि ग्रंथिकोमलौ
वैधव्यं स्थूलरोमाणौ ह्रस्वौ दौर्भाग्यसूचकौ
अंभोज मुकुलाकारमंगुष्ठांगुलिसंमुखम्
मृदुमध्योन्नतं रक्तं तलं पाण्योररंध्रकम् 4.1.37.
विधवा बहुरेखेण विरेखेण दरिद्रिणी
विरोम विशिरं शस्तं पाणिपृष्ठंसमुन्नतम्
रक्ता व्यक्ता गभीरा च स्निग्धा पूर्णा च वर्तुला
मत्स्येन सुभगा नारी स्वस्तिकेन वसुप्रदा
चक्रवर्तिस्त्रियाः पाणौ नंद्यावर्तः प्रदक्षिणः
तुलामानाकृतीरेखे वणिक्पत्नीत्वहेतुके
रेखा प्रासादवज्राभा ब्रूयुस्तीर्थकरं सुतम्
चामरांकुशकोदंडै राजपत्नी भवेद्ध्रुवम्