एकरोमा राजपत्नी द्विरोमा च सुखावहा
वृत्तं पिशितसंलग्नं जानुयुग्मं प्रशस्यते 4.1.37.
विशिरैः करभाकारैरूरुभिर्मसृणैर्घनैः
वैधव्यं रोमशैरुक्तं दौर्भाग्यं चिपिटैरपि
चतुर्भिरंगुलैः शस्ता कटिर्विंशतिसंयुतैः
विनता चिपिटा दीर्घा निर्मांसासंकटाकटिः
नितंबबिंबो नारीणामुन्नतो मांसलः पृथुः
कपित्थफलवद्वृत्तौ मृदुलौ मांसलौ घनौ
शुभः कमठपृष्ठाभो गजस्कंधोपमो भगः
आखुरोमा गूढमणिः सुश्लिष्टः संहतः पृथुः
कुरंगखुररूपोयश्चुल्लिकोदरसन्निभः
शंखावर्तो भगो यस्याः सा गर्भमिह नेच्छति 4.1.37.
विकटः कुटिलाकारो लंबगल्लस्तथाऽशुभः
भगस्य भालं जघनं विस्तीर्णं तुंगमांसलम्
वामावर्तं च निर्मांसं भुग्नवैधव्यसूचकम्
बस्तिः प्रशस्ता विपुला मृद्वीस्तोकसमुन्नता
गंभीरा दक्षिणावर्ता नाभी स्यात्सुखसंपदे
सूते सुतान्बहून्नारी पृथुकुक्षिः सुखास्पदम्
उन्नतेन वलीभाजा सावर्तेनापि कुक्षिणा
समैः समांसैर्मृदुभिर्योषिन्मग्नास्थिभिः शुभैः
यस्यादृश्य शिरे पार्श्वे उन्नते रोमसंयुते
उदरेणातितुच्छेन विशिरेण मृदुत्वचा 4.1.37.
कुंभाकारं दरिद्राया जठरं च मृदंगवत्
सुविशालोदरी नारी निरपत्या च दुर्भगा
मध्यक्षामा च सुभगा भोगाढ्या सवलित्रया
कपिला कुटिला स्थूला विच्छिन्ना रोमराजिका
निर्लोमहृदयं यस्याः समं निम्नत्व वर्जितम्
विस्तीर्णहृदया योषा पुंश्चली निर्दया तथा
अष्टादशांगुलततमुरः पीवरमुन्नतम्
घनौ वृत्तौ दृढौ पीनौ समौ शस्तौ पयोधरौ