प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति
अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः
अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः
आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम्
तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा 2.8.4.
व्यास उवाच भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम्
एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत
यस्य श्रवणतो नृणां जायते विस्मयो महान्
आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः
प्रतापतापितारातिवर्गव्याख्यातसद्यशाः
यशःपूरेण समलिप्ता दिशो दश सितत्विषा
नानादेशान्समाक्रम्य चतुरंगबलान्वितः
उत्कृष्टान्नृपतीन्वीरो दंडयित्वा बलाधिकान्
स विजित्य दिशः सर्वा गृहीत्वा रत्नसंचयम्
तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः 2.8.4.
वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम्
अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान्
दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् निश्चक्राम यथान्यायं स्वयमेव महायशाः
ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान्
मुनयः सर्व एवैते यूयं शृणुत मद्वचः
सांप्रतं मामको यज्ञो युक्तः स्यान्मुनिसत्तमाः
सांप्रतं कुरु तं यत्नान्मा विलंबं वृथा कृथाः
अगस्त्य उवाच नानासंभारमधुरं कृतसर्वस्वदक्षिणम्
नानाविधेन दानेन मुनिसंतोषहर्षकृत्
तेषु विश्वेषु यातेषु पूजितेषु गृहान्स्वकान् 2.8.4.
तेन यज्ञेन विधिवद्विहितेन नरेश्वरः
तत्रांतरे समभ्यायान्मुनिर्यमवतां वरः
दक्षिणार्थं गुरोर्द्धीमान्पावितुं तं नरेश्वरम्
मद्दक्षिणेति गुरुणा निर्बन्धाद्याचितो रुषा रघुं भूपालतिलकं दत्तसर्वस्वदक्षिणम्