सरयूतीरमासाद्य दिव्या परमशोभना
हस्त्यश्वरथपत्त्याढ्या संपदुच्चा च संस्थिता
सानूपवेषैः सर्वत्र सुविभक्तचतुष्टया
पद्मोत्फुल्लशुभोदाभिर्वापीभिरुपशोभिता
वीणावेणुमृदंगादिशब्दैरुत्कृष्टतां गता। शालैस्तालैर्नालिकेरैः पनसामलकैस्तथा
तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता
मालतीजातिबकुलपाटलीनागचंपकैः
निम्बजंवीरकदलीमातुलिंगमहाफलैः
देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता
श्रेष्ठैः सत्कविभिर्युक्ता बृहस्पतिसमैर्द्विजैः 2.8.1.
अश्वैरुच्चैःश्रवस्तुल्यैर्दंतिभिर्दिग्गजैरिव
यस्यां जाता महीपालाः सूर्यवंशसमुद्भवाः
यस्यास्तीरे पुण्यतोया कूजद्भृंगविहंगमा
धर्मद्रवपरीता सा घर्घरोत्तमसंगमा
दक्षिणाच्चरणांगुष्ठान्निःसृता जाह्नवी हरेः
तस्मादिमे पुण्यतमे नद्यौ देवनमस्कृते
तामयोध्यामथ प्राप्तोऽगस्त्यः कुम्भोद्भवो मुनिः
आगत्य तु इतः सोऽपि कृऽत्वा यात्रां क्रमेण च
पूजयित्वा यथान्यायं देवताः सकला अपि
कृतकृत्योर्ज्जितानन्दस्तीर्थमाहात्म्यदर्शनात् 2.8.1.
स त्रिरात्रं स्थितस्तत्र यात्रां कृत्वा यथाविधि
तमायांतं विलोक्याशु बहुलानन्दसुन्दरम्
परमानंदसंदोहः समभूत्सांप्रतं तव
कस्मादानंदपोषोऽभूत्तव ब्रह्मन्वदस्व मे
अगस्त्य उवाच अहो महदथाश्चर्य्यं विस्मयो मुनिसत्तम
तस्मादानंदसंदोहः समभून्मम सांप्रतम्
अयोध्याया महापुर्या महिमानं गुणाधिकम्
कः क्रमस्तीर्थयात्रायाः कानि तीर्थानि को विधिः एतत्सर्वं समाचक्ष्व विस्तराद्वदतां वर
दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता
अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते 2.8.1.